|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.113. अध्यायः 113
Mahabharata - Ashvamedhika Parva - Chapter Topics
कृष्णेन युधिष्ठिरंप्रति कार्तिकादिद्वादशमासेषु एकभुक्तव्रताचरणप्रकारनिरूपणपूर्वकं तत्फलकथनम्॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
वैशम्पायन उवाच।
केशवेनैवमुक्ते तु चान्द्रायणविधिक्रमे।
अपृच्छत्पुनरन्यांश्च धर्मान्धर्मात्मजो नृप॥ 14-113-1(96625)
युधिष्ठिर उवाच। 14-113-2x(7993)
सर्वभूतपते श्रीमन्सर्वभूतनमस्कृत।
सर्वभूतहितं धर्मं सर्वज्ञ कथयस्व नः॥ 14-113-2(96626)
भगवानुवाच। 14-113-3x(7994)
यद्दरिद्रजनस्यापि स्वर्ग्यं सुखकरं भवेत्।
सर्वपापप्रशमनं तच्छृणुष्व युधिष्ठिर॥ 14-113-3(96627)
कार्तिकाद्यास्तु ये मासा द्वादशैव प्रकीर्तिताः।
तेष्वेकबुक्तनिमः सर्वेषामुच्यते मया॥ 14-113-4(96628)
कार्तिके यस्तु वै मासे नन्दायां संयतेन्द्रियः।
एकभुक्तेन मद्भक्तो मासमेकं तु वर्तते॥ 14-113-5(96629)
जलं वा न पिबेन्मासे नान्तरं भोजनात्परम्।
आदित्यरूपं मां नित्यमर्चयन्सुसमाहितः॥ 14-113-6(96630)
व्रतान्ते भोजयेद्विप्रान्दक्षिणां सम्प्रदाय च।
क्रोधलोभविनिर्मुक्तस्तस्य पुण्यफलं शृणु॥ 14-113-7(96631)
विधिवत्कपिलादाने यत्पुण्यं समुदाहृतम्।
तत्पुण्यं समनुप्राप्य सूर्यकलोके महीयते।
ततश्चापि च्युतः कालात्पुरुषेषूपजायते॥ 14-113-8(96632)
मार्गशीर्षं तु यो मासमेकभुक्तेन वर्तते।
कामं क्रोधं च लोभं च परित्यज्य यथाविधि॥ 14-113-9(96633)
स्नात्वा चादित्यरूपं मामर्ययेन्नियतेन्द्रियः।
जपेच्चैव च गायत्रीं मामिकां वाग्यतेन्द्रियः॥ 14-113-10(96634)
मासे परिसमाप्ते तु भोजयित्वा द्विजाञ्शुचिः।
तानर्चयति मद्भक्त्या तस्य पुण्यफलं शृणु॥ 14-113-11(96635)
अग्निहोत्रे कृते पुण्यमाहिताग्नेस्तु यद्भवेत्।
तत्पुण्यं फलमासाद्य योनेनांऽबरशोभिना।
सह सप्तर्षिलोकेषु यथाकामं यथासुखम्॥ 14-113-12(96636)
ततश्चापि च्युतः कालाद्धरिवर्षेषु जायते।
तत्र प्रकामं क्रीडित्वा राजा पश्चाद्भविष्यति॥ 14-113-13(96637)
******** क्षिपेदेवमेकभुक्तेन यो नरः।
अर्चयन्नेव मां नित्यं मद्गतेनान्तरात्मना॥ 14-113-14(96638)
अहिंसासत्यसहितः क्रोधहर्षविवर्जितः।
एवं युक्तस्य राजेन्द्र शृणु यत्फलमुत्तमम्॥ 14-113-15(96639)
विप्रातिथ्यसहस्रेषु यत्पुण्यं समुदाहृतम्।
तत्पुण्यं समनुप्राप्य शक्रलोके महीयते॥ 14-113-16(96640)
अवतीर्णस्ततः कालादिलावर्षेषु जायते।
तत्र स्थित्वा चिरं कालमस्मिन्विप्रो भविष्यति॥ 14-113-17(96641)
माघमासं सदा यस्तु वर्तते चैकभुक्ततः।
मदर्चनपरो भूत्वा डंभक्तोधविवर्जितः।
मामिकामपि सावित्रीं सन्ध्यायां तु जपेद्बुधः॥ 14-113-18(96642)
दत्त्वा दु दक्षिणामन्ते भोजयित्वा द्विजानपि।
नमिस्करोति तान्भक्त्या मद्गतेनान्तरात्मना।
त्रिकालस्नानयुक्तस्य तस्य पुण्यफलं शृणु॥ 14-113-19(96643)
नीलकण्ठप्रयुक्तेन योनेनांऽबरशोभिना।
पितृलोकं व्रजेच्छ्रीमान्सेव्यमानोप्सरोणैः॥ 14-113-20(96644)
तत्र प्रकामं क्रीडित्वा भद्राश्वेषूपजायते।
ततश्च्युतश्चतुर्वेदी विप्रो भवति भूतले॥ 14-113-21(96645)
यश्चरेत्फाल्गुनं मासमेकभुक्तो जितेन्द्रियः।
नमो ब्रह्मण्यदेवायेत्येतन्मन्त्रं जपेत्सदा॥ 14-113-22(96646)
पायसं भोजयेद्विप्रान्व्रतान्ते संयतेन्द्रियः।
मदर्चनपरोऽक्रोधस्तस्य पुण्यफलं शृणु॥ 14-113-23(96647)
विमानं सारसैर्युक्तमारूढः कामगामि च।
नक्षत्रलोके रमते नक्षत्रसदृशाकृतिः॥ 14-113-24(96648)
ततश्चापि च्युतः कालात्केतुमालेषु जायते।
तत्र प्रकामं क्रीडित्वा मानुषेषु मुनिर्भवेत्॥ 14-113-25(96649)
चैत्रमासं तु यो राजन्नेकभुक्तेन वर्तते।
ब्रह्मचारी च मद्भक्त्या तस्य पुण्यफलं शृणु॥ 14-113-26(96650)
यदग्निहोत्रिणः पुण्यं यथोक्तं व्रतचारिणः।
तत्पुण्यफकलमासाद्य चन्द्रलोके महीयते॥ 14-113-27(96651)
ततोऽवतीर्णो जायेत वर्षे रमणके पुनः।
भुक्त्वा कामांस्ततस्तस्मिन्निह राजा भविष्यति॥ 14-113-28(96652)
वैशाखे यस्तु मासे वै ह्येकभुक्तेन वर्तते।
द्विजमग्रासने कृत्वा भुञ्जन्भूमौ च वाग्यतः॥ 14-113-29(96653)
नमो ब्रह्मण्यदेवायेत्यर्चयित्वा दिवाकरम्।
व्रतान्ते भोजयेद्विप्रांस्तस्य पुण्यफलं शृणु॥ 14-113-30(96654)
फलं यद्विधिवत्प्रोक्तमग्निष्टोमातिरात्रयोः।
तत्पुण्यफलमासाद्य देवलोके महीयते॥ 14-113-31(96655)
ततो हैमवते वर्षे जायते कालपर्ययात्।
तत्र प्रकामं क्रीडित्वा विप्रः पश्चाद्भविष्यति॥ 14-113-32(96656)
ज्येष्ठमासं तु यो विप्रो ह्येकभुक्तेन वर्तते।
विप्रमग्रासने कृत्वा भूमौ भुञ्जन्यथाविधि॥ 14-113-33(96657)
नमो ब्रह्मण्यदेवायेत्युच्चरन्मां समाहितः।
डंभानृतविनिर्मुक्तस्तस्य पुण्यफलं शृणु॥ 14-113-34(96658)
चीर्णे चान्द्रायणे सम्यग्यत्पुण्यं समुदाहृतम्।
तत्पुण्यफलमासाद्य देवलोके महीयते॥ 14-113-35(96659)
अथोत्तरकुरौ वर्षे जायते निर्गतस्ततः।
ततश्चापि च्युतः कालादिह लोके द्विजो भवेत्॥ 14-113-36(96660)
आषाढमासं यो राजन्नेकभुक्तेन वर्तते।
ब्रह्मचारी जितक्रोधो मदर्चनपरायणः॥ 14-113-37(96661)
विप्रमग्रासने कृत्वा भूमौ भुञ्जञ्जितेन्द्रियः।
कृत्वा त्रिषवणं स्नानमष्टाक्षरविधानतः॥ 14-113-38(96662)
व्रतान्ते भोजयेद्विद्वान्पायसेन युधिष्ठिर।
गुडोदनेन राजेन्द्र तस्य पुण्यफलं शृणु॥ 14-113-39(96663)
कपिलाशतदानस्य यत्पुण्यं पाण्डुनन्दन।
तत्पुण्यफलमासाद्य देवलोके महीयते॥ 14-113-40(96664)
ततोऽवतीर्णः काले तु शाकद्वीपे तु जायते।
ततश्चापि च्युतः कालादिह विप्रो भविष्यति॥ 14-113-41(96665)
श्रावणं यः क्षिपेन्मासमेकभुक्तेन वर्तते।
नमो ब्रह्मण्यदेवायेत्युक्त्वा मामर्चयेत्सदा।
विप्रमाग्रासने कृत्वा भूमौ भुञ्जन्यथाविधि॥ 14-113-42(96666)
पायसेनार्चयन्विप्राञ्जितक्रोधो जितेन्द्रियः।
लोभमोहविनिर्मुक्तस्तस्य पुण्यफलं शृणु॥ 14-113-43(96667)
कपिलादानस्य यत्पुण्यं विधिदत्तस्य पाण्डव।
तत्पुण्यं सम***प्राप्य शक्रलोके महीयते॥ 14-113-44(96668)
ततश्चापि च्युत कालात्कुशद्वीपे प्रजायते।
तत्रि प्रकामं क्रीडित्वा विप्रो भवति मानुषे॥ 14-113-45(96669)
यस्तु भाद्रपदं मासमेकभुक्तेन वर्तते।
ब्रह्मचारी जितक्रोधः सत्यसन्धो जितेन्द्रियः॥ 14-113-46(96670)
विप्रमग्रासने कृत्वा पाकभेदविवर्जितः।
नमो ब्रह्मण्यदेवायेत्युक्त्वाऽस्य चरणौ स्पृशेत्॥ 14-113-47(96671)
तिलानपि घृतं वाऽपि व्रतान्ते दक्षिमां ददत्।
मद्भक्तस्य नरश्रेष्ठ तस्य पुण्यफलं शृणु॥ 14-113-48(96672)
यत्फलं विधिवत्प्रोक्तं राजसूयाश्वमेधयोः।
तत्पुण्यफलमासाद्य शक्रलोके महीयते॥ 14-113-49(96673)
ततश्चापि च्युतः कालाज्जायते धनदालये।
तत्र प्रकामं क्रीकडित्वा राजा भवति मानुषे॥ 14-113-50(96674)
यश्चाप्याश्वयुजं मासमेकभुक्तेन वर्तते।
मद्गायत्रीं जपेद्भक्त्या मद्गतेनान्तरात्मना।
द्विसन्ध्यं वा त्रिसन्ध्यं वा शतमष्टोत्तरं तु वा॥ 14-113-51(96675)
विप्रमग्रासने कृत्वा संयतेन्द्रियमानसः।
व्रतान्ते भोजयेद्विप्रांस्तस्य पुण्यफलं शृणु॥ 14-113-52(96676)
अश्वमेधस्य यत्पुण्यं विधिवत्पाण्डुनन्दन।
तत्पुण्यफलमासाद्य मम लोके महीयते॥ 14-113-53(96677)
ततश्चापि च्युतः कालाच्छ्वेतद्वीपे प्रजायते।
तत्र भुक्त्वा च भोगांश्च ततो विप्रवरो भवेत्॥ ॥ 14-113-54(96678)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि वैष्णवधऱ्मपर्वणि त्रयोदशाधिकशततमोऽध्यायः॥ 113 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|